वांछित मन्त्र चुनें

प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् । स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिण॑म् ॥

अंग्रेज़ी लिप्यंतरण

pra yaṁ rāye ninīṣasi marto yas te vaso dāśat | sa vīraṁ dhatte agna ukthaśaṁsinaṁ tmanā sahasrapoṣiṇam ||

पद पाठ

प्र । यम् । रा॒ये । निनी॑षसि । मर्तः॑ । यः । ते॒ । व॒सो॒ इति॑ । दाश॑त् । सः । वी॒रम् । ध॒त्ते॒ । अ॒ग्ने॒ । उ॒क्थ॒ऽशं॒सिन॑म् । त्मना॑ । स॒ह॒स्र॒ऽपो॒षिण॑म् ॥ ८.१०३.४

ऋग्वेद » मण्डल:8» सूक्त:103» मन्त्र:4 | अष्टक:6» अध्याय:7» वर्ग:13» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:4